हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Balakanda Sarga 25 – बालकाण्ड पञ्चविंशः सर्गः (२५)
॥ ताटकावृत्तान्तः ॥
अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् ।
श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ॥ १ ॥
अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुङ्गव ।
कथं नागसहस्रस्य धारयत्यबला बलम् ॥ २ ॥
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।
[* हर्षयन् श्लक्ष्णया वाचा सलक्ष्मणमरिन्दमम् । *]
विश्वामित्रोऽब्रवीद्वाक्यं शृणु येन बलोत्तरा ॥ ३ ॥
वरदानकृतं वीर्यं धारयत्यबला बलम् ।
पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् ॥ ४ ॥
अनपत्यः शुभाचारः स च तेपे महत्तपः ।
पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा ॥ ५ ॥
कन्यारत्नं ददौ राम ताटकां नाम नामतः ।
बलं नागसहस्रस्य ददौ चास्याः पितामहः ॥ ६ ॥
न त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः ।
तां तु जातां विवर्धन्तीं रूपयौवनशालिनीम् ॥ ७ ॥
जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् ।
कस्यचित्त्वथ कालस्य यक्षी पुत्रं व्यजायत ॥ ८ ॥
मारीचं नाम दुर्धर्षं यः शापाद्राक्षसोऽभवत् ।
सुन्दे तु निहते राम सागस्त्यं मुनिपुङ्गवम् ॥ ९ ॥
ताटका सह पुत्रेण प्रधर्षयितुमिच्छति ।
भक्षार्थं जातसंरम्भा गर्जन्ती साऽभ्यधावत ॥ १० ॥
आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः ।
राक्षसत्वं भजस्वेति मारीचं व्याजहार सः ॥ ११ ॥
अगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान् ।
पुरुषादी महायक्षी विरूपा विकृतानना ॥ १२ ॥
इदं रूपं विहायाथ दारुणं रूपमस्तु ते ।
सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता ॥ १३ ॥
देशमुत्सादयत्येनमगस्त्यचरितं शुभम् ।
एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् ॥ १४ ॥
गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ।
न ह्येनां शापसंस्पृष्टां कश्चिदुत्सहते पुमान् ॥ १५ ॥
निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन ।
न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम ॥ १६ ॥
चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना ।
नृशंसमनृशंसं वा प्रजारक्षणकारणात् ॥ १७ ॥
पातकं वा सदोषं वा कर्तव्यं रक्षता सदा ।
राज्यभारनियुक्तानामेष धर्मः सनातनः ॥ १८ ॥
अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्या न विद्यते ।
श्रूयते हि पुरा शक्रो विरोचनसुतां नृप ॥ १९ ॥
पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ।
विष्णुना च पुरा राम भृगुपत्नी दृढव्रता ॥ २० ॥
अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता ।
एतैरन्यैश्च बहुभी राजपुत्र महात्मभिः ॥ २१ ॥
अधर्मनिरता नार्यो हताः पुरुषसत्तमैः ।
तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप ॥ २२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥
www.sanatanadharm.com